Skip to main content

यमुनाष्टकम्

Yamuna Ashtakam

यमुनाष्टकम्1
कृपापारावारां तपनतनयां तापशमनीं मुरारिप्रेयस्कां भवभयदवां भक्तवरदाम् ।
वियज्जालान्मुक्तां श्रियमपि सुखाप्तेः प्रतिदिनं सदा धीरो नूनं भजति यमुनां नित्यफलदाम् ॥१ ॥
मधुवनचारिणि भास्करवाहिनि जाह्नविसङ्गिनि सिन्धुसुते मधुरिपुभूषिणि माधवतोषिणि गोकुलभीतिविनाशकृते ।
जगदघमोचिनि मानसदायिनि केशवकेलिनिदानगते जय यमुने जय भीति निवारिणि सङ्कटनाशिनि पावय माम् ॥२ ॥
अयि मधुरे मधुमोदविलासिनि शैलविहारिणि वेगभरे परिजनपालिनि दुष्टनिषूदिनि वाञ्छितकामविलासधरे ।
व्रजपुरवासिजनार्जितपातकहारिणि विश्वजनोद्धरिके । जय० ॥३ ॥
अतिविपदम्बुधिमग्नजनं भवतापशताकुलमानसकं गतिमतिहीनमशेषभयाकुलमागतपादसरोजयुगम् ।
ऋणभयभीतिमनिष्कृतिपातककोटिशतायुतपुञ्जतरं । जय० ॥४ ॥
नवजलदद्युतिकोटिलसत्तनुहेममयाभररञ्जितके तडिदवहेलिपदाञ्चलचञ्चलशोभितपीतसुचैलधरे ।
मणिमयभूषणचित्रपटासनरञ्जितगञ्जितभानुकरे । जय० ॥५ ॥
शुभपुलिने मधुमत्तयदूद्भवरासमहोत्सवकेलिभरे उच्चकुलाचलराजितमौक्तिकहारमयाभररोदसिके ।
नवमणिकोटिकभास्करकञ्चुकिशोभिततारकहारयुते । जय० ॥६ ॥
करिवरमौक्तिकनासिकभूषणवातचमत्कृतचञ्चलके मुखकमलामलसौरभचञ्चलमत्तमधुव्रतलोचनिके ।
मणिगणकुण्डललोलपरिस्फुरदाकुलगण्डयुगामलके । जय० ॥७ ॥
कलरवनूपुरहेममयाचितपादसरोरुहसारुणिके धिमिधिमिधिमिधिमितालविनोदितमानसमञ्जुलपादगते ।
तव पदपङ्कजमाश्रितमानवचित्तसदाखिलतापहरे । जय० ॥८ ॥
भवोत्तापाम्भोधौ निपतितजनो दुर्गतियुतो यदि स्तौति प्रातः प्रतिदिनमनन्याश्रयतया ।
हयाह्रेषैः कामं करकुसुमपुञ्जैरविरतं सदा भोक्ता भोगान्मरणसमये याति हरिताम् ॥९ ॥2
इति श्रीमच्छङ्कराचार्यविरचितं यमुनाष्टकं सम्पूर्णम् ।3
Settings