Skip to main content

श्रीविष्णोरष्टाविंशतिनामस्तोत्रम्

Vishnu Ashtavimshati Nama Stotram

श्रीविष्णोरष्टाविंशतिनामस्तोत्रम्1

अर्जुन उवाच

किं नु नाम सहस्राणि जपते च पुनः पुनः ⁠ ।
यानि नामानि दिव्यानि तानि चाचक्ष्व केशव ⁠ ।⁠ ।⁠१⁠ ।⁠ ।3

श्रीभगवानुवाच

मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम् ।
गोविन्दं पुण्डरीकाक्षं माधवं मधुसूदनम् ⁠ ।⁠ ।⁠२⁠ ।⁠ ।
पद्मनाभं सहस्राक्षं वनमालिं हलायुधम् ⁠ ।
गोवर्धनं हृषीकेशं वैकुण्ठं पुरुषोत्तमम् ⁠ ।⁠ ।⁠३⁠ ।⁠ ।
विश्वरूपं वासुदेवं रामं नारायणं हरिम् ⁠ ।
दामोदरं श्रीधरं च वेदाङ्गं गरुडध्वजम् ⁠ ।⁠ ।⁠४⁠ ।⁠ ।
अनन्तं कृष्णगोपालं जपतो नास्ति पातकम् ⁠ ।
गवां कोटिप्रदानस्य अश्वमेधशतस्य च ⁠ ।⁠ ।⁠५⁠ ।⁠ ।
कन्यादानसहस्राणां फलं प्राप्नोति मानवः ⁠ ।
अमायां वा पौर्णमास्यामेकादश्यां तथैव च ⁠ ।⁠ ।⁠६⁠ ।⁠ ।
सन्ध्याकाले स्मरेन्नित्यं प्रातःकाले तथैव च ⁠ ।
मध्याह्ने च जपन्नित्यं सर्वपापैः प्रमुच्यते ⁠ ।⁠ ।⁠७⁠ ।⁠ ।5
इति श्रीकृष्णार्जुनसंवादे श्रीविष्णोरष्टाविंशतिनामस्तोत्रं सम्पूर्णम् ⁠ ।6
Settings