Skip to main content

वेदसारशिवस्तवः

Vedasara Shiva Stava

Adi Shankaracharya

पशूनां पतिं पापनाशं परेशं
गजेन्द्रस्य कृत्तिं वसानं वरेण्यम् ।
जटाजूटमध्ये स्फुरद्गाङ्गवारिं
महादेवमेकं स्मरामि स्मरारिम् ॥
gajendrasya kṛttiṃ vasānaṃ vareṇyam ।
mahādevamekaṃ smarāmi smarārim ॥1
महेशं सुरेशं सुरारातिनाशं
विभुं विश्वनाथं विभूत्यङ्गभूषम् ।
विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं
सदानन्दमीडे प्रभुं पञ्चवक्त्रम् ॥
vibhuṃ viśvanāthaṃ vibhūtyaṅgabhūṣam ।
sadānandamīḍe prabhuṃ pañcavaktram ॥2
गिरीशं गणेशं गले नीलवर्णं
गवेन्द्राधिरूढं गुणातीतरूपम् ।
भवं भास्वरं भस्मना भूषिताङ्गं
भवानीकलत्रं भजे पञ्चवक्त्रम् ॥
gavendrādhirūḍhaṃ guṇātītarūpam ।
bhavānīkalatraṃ bhaje pañcavaktram ॥3
शिवाकान्त शम्भो शशाङ्कार्धमौले
महेशान शूलिन् जटाजूटधारिन् ।
त्वमेको जगद्व्यापको विश्वरूपः
प्रसीद प्रसीद प्रभो पूर्णरूप ॥
maheśāna śūlin jaṭājūṭadhārin ।
prasīda prasīda prabho pūrṇarūpa ॥4
परात्मानमेकं जगद्बीजमाद्यं
निरीहं निराकारमोङ्कारवेद्यम् ।
यतो जायते पाल्यते येन विश्वं
तमीशं भजे लीयते यत्र विश्वम् ॥
nirīhaṃ nirākāramoṅkāravedyam ।
tamīśaṃ bhaje līyate yatra viśvam ॥5
न भूमिर्न चापो न वह्निर्न वायु-
र्न चाकाशमास्ते न तन्द्रा न निद्रा ।
न गर्मो न शीतं न देशो न वेषो
न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे ॥
rna cākāśamāste na tandrā na nidrā ।
na yasyāsti mūrtistrimūrtiṃ tamīḍe ॥6
अजं शाश्वतं कारणं कारणानां
शिवं केवलं भासकं भासकानाम् ।
तुरीयं तमःपारमाद्यन्तहीनं
प्रपद्ये परं पावनं द्वैतहीनम् ॥
śivaṃ kevalaṃ bhāsakaṃ bhāsakānām ।
prapadye paraṃ pāvanaṃ dvaitahīnam ॥7
महादेव देवेश देवाधिदेव
जगन्नाथ नाथेश भक्तानुकम्पिन् ।
शिवाकान्त कान्त स्मर स्मर प्रभो
मामुद्धर संसारवारांनिधेस्त्वम् ॥
jagannātha nātheśa bhaktānukampin ।
māmuddhara saṃsāravārāṃnidhest'vam ॥8
न जानामि योगं जपं नैव पूजां
नतोऽहं सदा सर्वदा शम्भुतुभ्यम् ।
जरा जन्मदुःखौघतातप्यमानं
प्रभो पाहि आपन्नमामीश शम्भो ॥
nato'haṃ sadā sarvadā śambhutubhyam ।
prabho pāhi āpannamāmīśa śambho ॥9
रुद्राष्टाध्यायी सदा शुद्धचित्तैः
पठेद्यस्तु नित्यं स यात्याशु मुक्तिम् ।
वेदसारमेतत् पठेद्यस्तु नित्यं
शिवाराधनासक्तचित्तो हि सः स्यात् ॥
paṭhedyastu nityaṃ sa yātyāśu muktim ।
śivārādhanāsaktacitto hi saḥ syāt ॥10
कदा वा स्मरिष्यामि कण्ठे कलङ्कं
कदा वन्दिष्ये वृषभध्वजेशम् ।
कदा वा कपर्दिं कदा शूलपाणिं
कदा वा द्विजाप्रियमीशं नमामि ॥
kadā vandiṣye vṛṣabhadvajīśam ।
kadā vā dvijāpriyamīśaṃ namāmi ॥11
Settings