Skip to main content
S
Sanatani
Navigation
Dashboard
Scriptures
Bookmarks
Contact Us
Settings
Login
Theme
Light
System
Dark
About
Privacy
Install this app for offline reading
Search Scriptures
Find and navigate to a scripture
Toggle Sidebar
Settings
Nyasadashakam | Sanatani
न्यासदशकम्
Nyasadashakam
Sri Venkatanatha
Save
Share
अहं मद्रक्षणभरो मद्रक्षणफलं तथा ।
न मम श्रीपतेरेवेत्यात्मानं निक्षिपेद् बुधः ॥
1
न्यस्याम्यकिञ्चनः श्रीमन्ननुकूलोऽन्यवर्जितः ।
विश्वासप्रार्थनापूर्वमात्मरक्षाभरं त्वयि ॥
2
स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् ।
स्वदत्तस्वधिया स्वार्थं स्वस्मिन्न्यस्यति मां स्वयम् ॥
3
श्रीमन्नभीष्टवरद त्वामस्मि शरणं गतः ।
एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम् ॥
4
त्वच्छेषत्वे स्थिरधियं त्वत्प्राप्त्येकप्रयोजनम् ।
निषिद्धकाम्यरहितं कुरु मां नित्यकिङ्करम् ॥
5
देवीभूषणहेत्यादिजुष्टस्य भगवंस्तव ।
नित्यं निरपराधेषु कैङ्कर्येषु नियुङ्क्ष्व माम् ॥
6
मां मदीयं च निखिलं चेतनाचेतनात्मकम् ।
स्वकैङ्कर्योपकरणं वरद स्वीकुरु स्वयम् ॥
7
त्वमेव रक्षकोऽसि मे त्वमेव करुणाकरः ।
न प्रवर्तय पापानि प्रवृत्तानि निवारय ॥
8
अकृत्यानां च करणं कृत्यानां वर्जनं च मे ।
क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो ॥
9
श्रीमन्नियतपञ्चाङ्गं मद्रक्षणभरार्पणम् ।
अचीकरत्स्वयं स्वस्मिन्नतोऽहमिह निर्भरः ॥
10
इति श्रीवेङ्कटनाथकृतं न्यासदशकं सम्पूर्णम् ।