Skip to main content
S
Sanatani
Navigation
Dashboard
Scriptures
Bookmarks
Contact Us
Settings
Login
Theme
Light
System
Dark
About
Privacy
Install this app for offline reading
Search Scriptures
Find and navigate to a scripture
Toggle Sidebar
Settings
Dhanyashtakam | Sanatani
धन्याष्टकम्
Dhanyashtakam
Shankaracharya
Save
Share
तज्ज्ञानं प्रशमकरं यदिन्द्रियाणां तज्ज्ञेयं यदुपनिषत्सु निश्चितार्थम् ।
ते धन्या भुवि परमार्थनिश्चितेहाः शेषास्तु भ्रमनिलये परिभ्रमन्ति ।।
1
आदौ विजित्य विषयान्मदमोहराग- द्वेषादिशत्रुगणमाहृतयोगराज्याः ।
ज्ञात्वामृतं समनुभूतपरात्मविद्या- कान्तासुखा बत गृहे विचरन्ति धन्याः ।।
2
त्यक्त्वा गृहे रतिमधोगतिहेतुभूता- मात्मेच्छयोपनिषदर्थरसं पिबन्तः ।
वीतस्पृहा विषयभोगपदे विरक्ता धन्याश्चरन्ति विजनेषु विरक्तसङ्गाः ।।
3
त्यक्त्वा ममाहमिति बन्धकरे पदे द्वे मानावमानसदृशाः समदर्शिनश्च ।
कर्तारमन्यमवगम्य तदर्पितानि कुर्वन्ति कर्मपरिपाकफलानि धन्याः ।।
4
त्यक्त्वैषणात्रयमवेक्षितमोक्षमार्गा भैक्षामृतेन परिकल्पितदेहयात्राः ।
ज्योतिः परात्परतरं परमात्मसंज्ञं धन्या द्विजा रहसि हृद्यवलोकयन्ति ।।
5
नासन्न सन्न सदसन्न महन्न चाणु न स्त्री पुमान्न च नपुंसकमेकबीजम् ।
यैर्ब्रह्म तत्समनुपासितमेकचित्ता धन्या विरेजुरितरे भवपाशबद्धाः ।।
6
अज्ञानपङ्कपरिमग्नमपेतसारं दुःखालयं मरणजन्मजरावसक्तम् ।
संसारबन्धनमनित्यमवेक्ष्य धन्या ज्ञानासिना तदवशीर्य विनिश्चयन्ति ।।
7
शान्तैरनन्यमतिभिर्मधुरस्वभावै- रेकत्वनिश्चितमनोभिरपेतमोहैः ।
साकं वनेषु विजितात्मपदस्वरूपं शास्त्रेषु सम्यगनिशं विमृशन्ति धन्याः ।।
8
अहिमिव जनयोगं सर्वदा वर्जयेद्यः कुणपमिव सुनारीं त्यक्तुकामो विरागी ।
विषमिव विषयान्यो मन्यमानो दुरन्तान् जयति परमहंसो मुक्तिभावं समेति ।।
9
सम्पूर्णं जगदेव नन्दनवनं सर्वेऽपि कल्पद्रुमा
गाङ्गं वारि समस्तवारिनिवहाः पुण्याः समस्ताः क्रियाः ।
वाचः प्राकृतसंस्कृताः श्रुतिशिरो वाराणसी मेदिनी
सर्वावस्थितिरस्य वस्तु विषया दृष्टे परब्रह्मणि ।।
10
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्कराचार्यविरचितं धन्याष्टकं सम्पूर्णम् ।